Social Icons

Image and video hosting by yuvrajmohite.com

Pratah Samran,Mandagalacharan,kardarshan va Bhumivandan

प्रातःस्मरण, मङ्गलाचरण, करदर्शन व भूमिवंदन 
 
श्रीगणेशाय नमः ।श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः 
।श्रीवेदपुरुषाय नमः ।इष्टदेवताभ्यो नमः 
।कुलदेवताभ्यो नमः ।श्रीलक्ष्मीनारायणाभ्यां नमः
।श्रीउमामहेश्वराभ्यां नमः । श्रीमातापितृभ्यां नमः

।करदर्शन व भूमिवंदनकराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥१॥

समुद्रवसने देवि । पर्वतस्तनमण्डले ।
विष्णुपत्नि । नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥२॥

(मुखमार्जनानंतर)
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ॥

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

मूकं करोति वाचालं पङ्गुं लङ्गयते गिरिम ।
यत्कृपा तमहं वंदे परमानन्दमाधवम् ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः ॥

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥

अश्वत्थामा बलिर्व्यासो हनूमांश्च बिभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

बलिर्बिभीषणो भीष्मः प्रल्हादो नारदो ध्रुवः ।
षडेते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥

अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ॥

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥

जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
Widgets
 

सन्माननीय सभासद आणि तोंडोली ग्रामस्थ. व सर्व अंबिका माता भक्तजन यांसी जाहिर आवाहन.. Open Announcement

X